नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 61 to 70 of 160 verses
Verse 61
चिरादनध्यायमवाङ्मुखी मुखे ततः स्म सा वासयते दमस्वसा । कृतायतश्वासविमोक्षणाथ तं क्षणाद्बभाषे करुणं विचक्षणा ॥
Metre: वंशस्थम्

Verse 62
विभिन्दता दुष्कृतिनीं मम श्रुतिं दिगिन्द्रदुर्वाचिकसूचिसंचयैः । प्रयातजीवामिव मां प्रति स्फुटं कृतं त्वयाप्यन्तकदूततोचितम् ॥
Metre: वंशस्थम्

Verse 63
त्वदास्यनिर्यन्मदलीकदुर्यशोमषीमयं सल्लिपिरूपभागिव । श्रुतं ममाविश्य भवद्दुरक्षरं सृजत्यदः कीटवदुत्कटा रुजः ॥
Metre: वंशस्थम्

Verse 64
तमालिरूचेऽथ विदर्भजेरिता प्रगाढमौनव्रतयैकया सखी । त्रपां समाराधयतीयमन्यया भवन्तमाह स्वरसज्ञया मया ॥
Metre: वंशस्थम्

Verse 65
तमर्चितुं मद्वरणस्रजा नृपं स्वयंवरः संभविता परेद्यवि । ममासुभिर्गन्तुमनाः पुरःसरैः तदन्तरायः पुनरेष वासरः ॥
Metre: वंशस्थम्

Verse 66
तदद्य विश्रम्य दयालुरेधि मे दिनं निनीषामि भवद्विलोकिनी । नखैः किलाख्यायि विलिख्य पक्षिणा तवैव रूपेण समः स मत्प्रियः ॥
Metre: वंशस्थम्

Verse 67
दृशोर्द्वयी ते विधिनास्ति वञ्चिता मुखस्य लक्ष्मीं तव यन्न वीक्षते । असावपि श्वस्तदिमां नलानने विलोक्य साफल्यमुपैतु जन्मनः ॥
Metre: वंशस्थम्

Verse 68
ममैव पाणौकरणेऽग्निसाक्षिकं प्रसङ्गसंपादितमङ्ग ! संगतम् । न हा सहाधीतिधृतः स्पृहा कथं तवार्यपुत्रीयमजर्यमर्जितुम् ? ॥
Metre: वंशस्थम्

Verse 69
दिगीश्वरार्थे न कथंचन त्वया कदर्थनीयास्मि कृतोऽयमञ्जलिः । प्रसद्यतां नाद्य निगाद्यमीदृशं दृशौ दधे बाष्परयास्पदे भृशम् ॥
Metre: वंशस्थम्

Verse 70
वृणे दिगीशानिति का कथा तथा त्वयीति नेक्षे नलभामपीहया । सतीव्रतेऽग्नौ तृणयामि जीवितं स्मरस्तु किं वस्तु तदस्तु भस्म यः ॥
Metre: वंशस्थम्

Showing 61 to 70 of 160 verses