नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 81 to 90 of 160 verses
Verse 81
पतिंवरायाः कुलजं वरस्य वा यमः कमप्याचरितातिथिं यदि । कथं न गन्ता विफलीभविष्णुतां स्वयंवरः साध्वि ! समृद्धिमानपि ? ॥
Metre: वंशस्थम्

Verse 82
अपः प्रति स्वामितयाऽपरः सुरः स ता निषेधेद्यदि नैषधक्रुधा । नलाय लोभात्ततपाणयेऽपि ते पिता कथं त्वां वद संप्रदास्यते ॥
Metre: वंशस्थम्

Verse 83
इदं महत्तेऽभिहितं हितं मया विहाय मोहं दमयन्ति ! चिन्तय । सुरेषु विघ्नैकपरेषु को नरः करस्थमप्यर्थमवाप्तुमीश्वरः ? ॥
Metre: वंशस्थम्

Verse 84
इमा गिरस्तस्य विचिन्त्य चेतसा तथेति संप्रत्ययमाससाद सा । निवारितावग्रहनीरनिर्झरे नभोनभस्यत्वमलम्भयद्दृशौ ॥
Metre: वंशस्थम्

Verse 85
स्फुटोत्पलाभ्यामलिदंपतीव तद्विलोचनाभ्यां कुचकुङ्मलाशया । निपत्य बिन्दू हृदि कज्जलाविलौ मणीव नीलौ तरलौ विरेजतुः ॥
Metre: वंशस्थम्

Verse 86
धुतापतत्पुष्पशिलीमुखाशुगैः शुचेस्तदासीत्सरसी रसस्य सा । रयाय बद्धादरयाश्रुधारया सनालनीलोत्पललीललोचना ॥
Metre: वंशस्थम्

Verse 87
अथोद्भ्रमन्ती रुदती गतक्षमा ससंभ्रमा लुप्तरतिः स्खलन्मतिः । व्यधात्प्रियप्राप्तिविधातनिश्चयान्मृदूनि दूना परिदेवतानि सा ॥
Metre: वंशस्थम्

Verse 88
त्वरस्व पञ्चेषुहुताशनात्मनः तनुष्व मद्भस्ममयं यशश्चयम् । विधे ! परेहाफलभक्षणव्रती पताद्य तृष्यन्नसुभिर्ममाफलैः ॥
Metre: वंशस्थम्

Verse 89
भृशं वियोगानलतप्यमान ! किं विलीयसे न त्वमयोमयं यदि । स्मरेषुभिर्भेद्य ! न वज्रमप्यसि ब्रवीषि न स्वान्त ! कथं न दीर्यसे ॥
Metre: वंशस्थम्

Verse 90
विलम्बसे जीवित ! किं द्रव द्रुतं ज्वलत्यदस्ते हृदयं निकेतनम् । जहासि नाद्यापि मृषा सुखासिकाम् अपूर्वमालस्यमिदं तवेदृशम् ॥
Metre: वंशस्थम्

Showing 81 to 90 of 160 verses