नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 91 to 100 of 160 verses
Verse 91
दृशौ ! मृषा पातकिनो मनोरथाः कथं पृथू वामपि विप्रलेभिरे । प्रियश्रियः प्रेक्षणघाति पातकं स्वमश्रुभिः क्षालयतं शतं समाः ॥
Metre: वंशस्थम्

Verse 92
प्रियं न मृत्युं न लभे त्वदीप्सितं तदेव न स्यान्मम यत्त्वमिच्छसि । वियोगमेवेच्छ मनः ! प्रियेण मे तव प्रसादान्न भवत्वसौ मम ॥
Metre: वंशस्थम्

Verse 93
न काकुवाक्यैरतिवाममङ्गजं द्विषत्सु याचे पवनं तु दक्षिणम् । दिशापि मद्भस्म किरत्वयं तया प्रियो यया वैरविधिर्वधावधिः ॥
Metre: वंशस्थम्

Verse 94
अमूनि गच्छन्ति युगानि न क्षणः कियत्सहिष्ये न हि मृत्युरस्ति मे । स मां न कान्तः स्फुटमन्तरुज्झिता न तं मनस्तच्च न कायवायवः ॥
Metre: वंशस्थम्

Verse 95
मदुग्रतापव्ययशक्तशीकरः सुराः ! स वः केन पपे कृपार्णवः । उदेति कोटिर्न मुदे मदुत्तमा किमाशु संकल्पकणश्रमेण वः ॥
Metre: वंशस्थम्

Verse 96
ममैव वाहर्दिनमश्रुदुर्दिनैः प्रसह्य वर्षासु ऋतौ प्रसञ्जिते । कथं नु शृण्वन्तु सुषुप्य देवता भवत्वरण्येरुदितं न मे गिरः ॥
Metre: वंशस्थम्

Verse 97
इयं न ते नैषध ! दृक्पथातिथिः त्वदेकतानस्य जनस्य यातना । ह्रदे ह्रदे हा न कियद्गवेषितः स वेधसाऽगोपि खगोऽपि वक्ति यः ॥
Metre: वंशस्थम्

Verse 98
ममापि किं नो दयसे दयाघन ! त्वदङ्घ्रिमग्नं यदि वेत्थ मे मनः । निमज्जयन्संतमसे पराशयं विधिस्तु वाच्यः क्व तवागसः कथा ? ॥
Metre: वंशस्थम्

Verse 99
कथावशेषं तव सा कृते गतेत्युपैष्यति श्रोत्रपथं कथं न ते ? । दयालुना मां समनुग्रहीप्यसे तदापि तावद्यदि नाथ ! नाधुना ॥
Metre: वंशस्थम्

Verse 100
ममादरीदं विदरीतुमान्तरं तदर्थिकल्पद्रुम ! किंचिदर्थये । भिदां हृदि द्वारमवाप्य मा स मे हतासुभिः प्राणसमः समं गमः ॥
Metre: वंशस्थम्

Showing 91 to 100 of 160 verses