दृशौ ! मृषा पातकिनो मनोरथाः कथं पृथू वामपि विप्रलेभिरे । प्रियश्रियः प्रेक्षणघाति पातकं स्वमश्रुभिः क्षालयतं शतं समाः ॥
Metre: वंशस्थम्
प्रियं न मृत्युं न लभे त्वदीप्सितं तदेव न स्यान्मम यत्त्वमिच्छसि । वियोगमेवेच्छ मनः ! प्रियेण मे तव प्रसादान्न भवत्वसौ मम ॥
Metre: वंशस्थम्
न काकुवाक्यैरतिवाममङ्गजं द्विषत्सु याचे पवनं तु दक्षिणम् । दिशापि मद्भस्म किरत्वयं तया प्रियो यया वैरविधिर्वधावधिः ॥
Metre: वंशस्थम्
अमूनि गच्छन्ति युगानि न क्षणः कियत्सहिष्ये न हि मृत्युरस्ति मे । स मां न कान्तः स्फुटमन्तरुज्झिता न तं मनस्तच्च न कायवायवः ॥
Metre: वंशस्थम्
मदुग्रतापव्ययशक्तशीकरः सुराः ! स वः केन पपे कृपार्णवः । उदेति कोटिर्न मुदे मदुत्तमा किमाशु संकल्पकणश्रमेण वः ॥
Metre: वंशस्थम्
ममैव वाहर्दिनमश्रुदुर्दिनैः प्रसह्य वर्षासु ऋतौ प्रसञ्जिते । कथं नु शृण्वन्तु सुषुप्य देवता भवत्वरण्येरुदितं न मे गिरः ॥
Metre: वंशस्थम्
इयं न ते नैषध ! दृक्पथातिथिः त्वदेकतानस्य जनस्य यातना । ह्रदे ह्रदे हा न कियद्गवेषितः स वेधसाऽगोपि खगोऽपि वक्ति यः ॥
Metre: वंशस्थम्
ममापि किं नो दयसे दयाघन ! त्वदङ्घ्रिमग्नं यदि वेत्थ मे मनः । निमज्जयन्संतमसे पराशयं विधिस्तु वाच्यः क्व तवागसः कथा ? ॥
Metre: वंशस्थम्
कथावशेषं तव सा कृते गतेत्युपैष्यति श्रोत्रपथं कथं न ते ? । दयालुना मां समनुग्रहीप्यसे तदापि तावद्यदि नाथ ! नाधुना ॥
Metre: वंशस्थम्
ममादरीदं विदरीतुमान्तरं तदर्थिकल्पद्रुम ! किंचिदर्थये । भिदां हृदि द्वारमवाप्य मा स मे हतासुभिः प्राणसमः समं गमः ॥
Metre: वंशस्थम्