स्मितस्य संभावय सृक्वणा कणान्विधेहि लीलाचलमञ्चलं भ्रुवः । अपाङ्गरथ्यापथिकीं च हेलया प्रसद्य संधेहि दृशं ममोपरि ॥
Metre: वंशस्थम्
समापय प्रावृषमश्रुविप्रुषां स्मितेन विश्राणय कौमुदीमुदः । दृशावितः खेलतु खञ्जनद्वयी विकासिपङ्केरुहमस्तु ते मुखम् ॥
Metre: वंशस्थम्
सुधारसोद्वेलनकेलिमक्षरस्रजा सृजान्तर्मम कर्णकूपयोः । दृशौ मदीये मदिराक्षि ! कारय स्मितश्रिया पायसपारणाविधिम् ॥
Metre: वंशस्थम्
ममासनार्धे भव मण्डनं न न प्रिये ! मदुत्सङ्गविभूषणं भव । अहं भ्रमादालपमङ्ग ! मृष्यतां विना ममोरः कतमत्तवासनम् ॥
Metre: वंशस्थम्
अधीतपञ्चाशुगबाणवञ्चने ! स्थिता मदन्तर्बहिरेषि चेदुरेः । स्मराशुगेभ्यो हृदयं बिभेतु न प्रविश्य तत्त्वन्मयसंपुटे मम ॥
Metre: वंशस्थम्
परिष्वजस्वानवकाशबाणता स्मरस्य लग्ने हृदयेद्वयेऽस्तु नौ । दृढा मम त्वत्कुचयोः कठोरयोः उरस्तटीयं परिचारिकोचिता ॥
Metre: वंशस्थम्
तवाधराय स्पृहयामि यन्मधुस्रवैः श्रवः साक्षिकमाक्षिका गिरः । अधित्यकासु स्तनयोस्तनोतु ते ममेन्दुलेखाभ्युदयाद्भ्रुतं नखः ॥
Metre: वंशस्थम्
न वर्तसे मन्मथनाटिका कथं प्रकाशरोमावलिसूत्रधारिणी । तवाङ्गहारे रुचिमेति नायकः शिखामणिश्च द्विजराड्विदूषकः ॥
Metre: वंशस्थम्
शुभाष्टवर्गस्त्वदनङ्गजन्मनः तवाधरेऽलिख्यत यत्र लेखया । मदीयदन्तक्षतराजिरञ्जनैः स भूर्जतामर्जतु बिम्बपाटलः ॥
Metre: वंशस्थम्
गिरानुकम्पस्व दयस्व चुम्बनैः प्रसीद शुश्रूषयितुं मया कुचौ । निशेव चान्द्रस्य करोत्करस्य यन्मम त्वमेकासि नलस्य जीवितम् ॥
Metre: वंशस्थम्