मुनिर्यथात्मानमथ प्रबोधवान्प्रकाशयन्तं स्वमसावबुध्यत । अपि प्रपन्नां प्रकृतिं विलोक्य ताम् अवाप्तसंस्कारतयासृजद्गिरः ॥
Metre: वंशस्थम्
अये ! मयात्मा किमनिह्नुतीकृतः किमत्र मन्ता स तु मां शतक्रतुः । पुरः स्वभक्त्याथ नमन्ह्रियाविलो विलोकिताहे न तदिङ्गितान्यपि ॥
Metre: वंशस्थम्
स्वनाम यन्नाम मुधाभ्यधामहो महेन्द्रकार्ये महदेतदुज्झितम् । हनूमदाद्यैर्यशसा मया पुनर्द्विषां हसैर्दूत्यपथः सितीकृतः ॥
Metre: वंशस्थम्
धियात्मनस्तावदचारु नाचरं परस्तु तद्वेद स यद्वदिष्यति । जनावनायोद्यमिनं जनार्दनं क्षये जगज्जीवपिबं शिवं वदन् ॥
Metre: वंशस्थम्
स्फुटत्पदः किं हृदयं त्रपाभराद्यदस्य शुद्धिर्विबुधैर्विबुध्यताम् । विदन्तु ते तत्त्वमिदं तु दन्तुरं जनानने कः करमर्पयिष्यति ॥
Metre: वंशस्थम्
मम श्रमश्चेतनयानया फली बलीयसालोपि च सैव वेधसा । न वस्तु दैवस्वरसाद्विनाश्वरं सुरेश्वरोऽपि प्रतिकर्तुमीश्वरः ॥
Metre: वंशस्थम्
इति स्वयं मोहमहोर्मिनिर्मितं प्रकाशनं शोचति नैषधे निजम् । तथाव्यथामग्नतदुद्दिधीर्षया दयालुरागाल्लघु हेमहंसराट् ॥
Metre: वंशस्थम्
नलं स तत्पक्षरवोर्ध्ववीक्षिणं स एष पक्षीति भणन्तमभ्यधात् । नयादयैनामति मा निराशताम् असून्विहातेयमतः परं परम् ॥
Metre: वंशस्थम्
सुरेषु पश्यन्निजसापराधताम् इयत्प्रयस्यापि तदर्थसिद्धये । न कूटसाक्षीभवनोचितो भवान्सतां हि चेतः शुचितात्मसाक्षिका ॥
Metre: वंशस्थम्
इतीरिणापृच्छय नलं विदर्भजाम् अपि प्रयातेन खगेन सान्त्वितः । मृदुर्बभाषे भगिनीं दमस्य स प्रणम्य चित्तेन हरित्पतीन्नृपः ॥
Metre: वंशस्थम्