नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 141 to 150 of 160 verses
Verse 141
विदर्भराजप्रभवा ततः परं त्रपासखी वक्तुमलं न वा नलम् । पुरस्तमूचेऽभिमुखं यदत्रपा ममज्ज तेनैव महाह्रदे ह्रियः ॥
Metre: वंशस्थम्

Verse 142
यदापवार्यापि न दातुमुत्तरं शशाक सख्याः श्रवसि प्रियस्व सा । विहस्य सख्येव तमव्रवीत्तदा ह्रियाऽधुना मौनधना भवत्प्रिया ॥
Metre: वंशस्थम्

Verse 143
पदातिथेयाँल्लिखितस्य ते स्वयं वितन्वती लोचननिर्झरानियम् । जगाद यां सैव मुखान्मम त्वया प्रसूनवाणोपनिषन्निशम्यताम् ॥
Metre: वंशस्थम्

Verse 144
असंशयं स त्वयि हंस एव मां शशंस न त्वद्विरहाप्तसंशयाम् । क्व चन्द्रवंशस्य वतंस ! मद्वधान्नृशंसता संभविनी भवादृशे ॥
Metre: वंशस्थम्

Verse 145
जितस्तवयास्येन विधुः स्मरः श्रिया कृतप्रतिज्ञौ मम तौ वधे कुतः । तवेति कृत्वा यदि तज्जितं मया न मोघसङ्कल्पधराः किलामराः ॥
Metre: वंशस्थम्

Verse 146
निजांशुनिर्दग्धमदङ्गभस्मभिः मुधा विधुर्वाञ्छति लाञ्छनोन्मृजाम् । त्वदास्यतां यास्यति तावतापि किं वधूवधेनैव पुनः कलङ्कितः ॥
Metre: वंशस्थम्

Verse 147
प्रसीद यच्छ स्वशरान्मनोभुवे स हन्तु मां तैर्धुतकौसुमाशुगः । त्वदेकचित्ताहमसून्विमुञ्चती त्वमेव भूत्वा तृणवज्जयामि तम् ॥
Metre: वंशस्थम्

Verse 148
श्रुतिः सुराणां गुणगयनी यदि त्वदङ्घ्रिमग्नस्य जनस्य किं ततः । स्तवे रवेरप्सु कृताप्लवैः कृते न मुद्वती जातु भवेत्कुमुद्वती ॥
Metre: वंशस्थम्

Verse 149
कथासु शिष्यै वरमद्य न ध्रिये ममावगन्तासि न भावमन्यथा । त्वदर्थमुक्तासुतया सुनाथ ! मां प्रतीहि जावाभ्यधिक ! त्वदेकिकाम् ॥
Metre: वंशस्थम्

Verse 150
महेन्द्रहेतेरपि रक्षणं भयाद्यदर्थिसाधारणमस्त्रभृद्द्रतम् । प्रसूनबाणादपि मामरक्षतः क्षतं तदुच्चैरवकीर्णिनस्तव ॥
Metre: वंशस्थम्

Showing 141 to 150 of 160 verses