इति प्रियाकाकुभिरुन्मिषन्भृशं दिगीशदूत्येन हृदि स्थिरीकृतः । नृपं स योगेऽपि वियोगमन्मथः क्षणं तमुद्भ्रान्तमजीजनत्पुनः ॥
Metre: वंशस्थम्
महेन्द्रदूत्यादि समस्तमात्मनः ततः स विस्मृत्य मनोरथस्थितैः । क्रियाः प्रियाया ललितैः करम्बिता वितर्कयन्नित्थमलीकमालपत् ॥
Metre: वंशस्थम्
अयि प्रिये ! कस्य कृते विलप्यते विलिप्यते हा मुखमश्रुबिन्दुभिः । पुरस्त्वयालोकि नमन्नयं न किं तिरश्चलल्लोचनलीलया नलः ॥
Metre: वंशस्थम्
चकास्ति बिन्दुच्युतकातिचातुरी घनास्रुबिन्दुस्रुतिकैतवात्तव । मसारताराक्षि ! ससारमात्मना तनोषि संसारमसंशयं यतः ॥
Metre: वंशस्थम्
अपास्तपाथोरुहि शायितं करे करोषि लीलाकमलं किमाननम् । तनोषि हारं कियदश्रुणः स्रवैः अदोषनिर्वासितभूषणे हृदि ॥
Metre: वंशस्थम्
दृशोरमङ्गल्यमिदं मिलज्जलं करेण तावत्परिमार्जयामि ते । अथापराधं भवदङ्घ्रिपङ्कजद्वयीरजोभिः सममात्ममौलिना ॥
Metre: वंशस्थम्
मम त्वदच्छाङ्घ्रिनखामृतद्युतेः किरीटमाणिक्यमयूखमञ्जरी । उपासनामस्य करोतु रोहिणी त्यज त्यजाकारणरोषणे ! रुषम् ॥
Metre: वंशस्थम्
तनोषि मानं मयि चेन्मनागपि त्वयि श्रये तद्बहुमानमानतः । विनम्य वक्रं यदि वर्तसे कियन्नमामि ते चण्डि ! तदा पदावधि ॥
Metre: वंशस्थम्
प्रभुत्वभूम्नानुगृहाण वा न वा प्रणाममात्राधिगमेऽपि कः श्रमः । क्व याचतां कल्पलतासि मां प्रति क्व दृष्टिदाने तव बद्धमुष्टिता ॥
Metre: वंशस्थम्
स्मरेषुमाथं सहसे मृदुः कथं हृदि द्रढीयः कुचसंवृते तव । निपत्य वैसारिणकेतनस्य वा व्रजन्ति बाणा विमुखोत्पतिष्णुताम् ॥
Metre: वंशस्थम्