सुधांशुरेषु प्रथमो भुवीति स्मरो द्वितीयः किमसावितीमम् । दस्रस्तृतीयोऽयमिति क्षितीशाः स्तुतिच्छलान्मत्सरिणो निनिन्दुः ॥
Metre: उपजातिः
आद्यं विधोर्जन्म स एष भूमौ द्वैतं युवासौ रतिवल्लभस्य । नासत्ययोर्मूर्तितृतीयतायमिति स्तुतस्तैः कृतमत्सरैः सः ॥
Metre: उपजातिः
मायानलोदाहरणान्मिथस्तैरूचे समाः सन्त्यमुना कियन्तः । आत्मापकर्षे सति मत्सराणां द्विषः परस्पर्धनया समाधिः ॥
Metre: उपजातिः
गुणेन केनापि जनेऽनवद्ये दोषान्तरोक्तिः खलु तत्खलत्वम् । रूपेण तत्संसददूषितस्य सुरैर्नरत्वं यददूषि तस्य ॥
Metre: उपजातिः
नलानसत्यानवदत्स सत्यः कृतोपवेशान्सविधे सुवेषान् । नोभाविलाभूः किमु दर्पकश्च भवन्ति नासत्ययुतौ भवन्तः ॥
Metre: उपजातिः
अमी तमीदृग्जगुरत्र मध्ये कस्यापि नोत्पत्तिरभूदिलायाम् । अदर्पकाः स्मः सविधे स्थितास्ते नासत्यतां नात्र बिभर्ति कश्चित् ॥
Metre: उपजातिः
तेभ्यः परान्नः परिकल्पयस्व श्रिया विदूरीकृतकामदेवान् । अस्मिन्समाजे बहुषु भ्रमन्ती भैमी किलास्मासु घटिष्यतेऽसौ ॥
Metre: उपजातिः
असाम यन्नाम तवेह रूपं स्वेनाधिगत्य श्रितमुग्धभावाः । तन्नो धिगाशापतितान्नरेन्द्र धिक्चेदमस्मद्विबुधत्वमस्तु ॥
Metre: उपजातिः
सा वागवाज्ञायितमां नलेन तेषामनाशङ्कितवाक्छलेन । स्त्रीरत्नलाभोचितयत्नमग्नमेनं हि न स्म प्रतिभाति किंचित् ॥
Metre: इन्द्रवज्रा
यः स्पर्धया येन निजप्रतिष्ठां लिप्सुः स एवाह तदुन्नतत्वम् । कः स्पर्धितुः स्वाभिहितस्वहानेः स्थानेऽवहेलां बहुलां न कुर्यात् ॥
Metre: इन्द्रवज्रा