नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 41 to 50 of 109 verses
Verse 41
आस्तामनङ्गीकरणाद्भवेन दृश्यः स्मरो नेति पुराणवाणी । तवैव देहं श्रितया श्रियेति नवस्तु वस्तु प्रतिभाति वादः ॥
Metre: उपजातिः

Verse 42
त्वया जगत्युच्चितकान्तिसारे यदिन्दुनाशीलि शिलोञ्छवृत्तिः । आरोपि तन्माणवकोऽपि मौलौ स यज्वराज्येऽपि महेश्वरेण ॥
Metre: उपजातिः

Verse 43
आदेहदाहं कुसुमायुधस्य विधाय सौन्दर्यकथादरिद्रम् । त्वदङ्गशिल्पात्पुनरीश्वरेण चिरेण जाने जगदन्वकम्पि ॥
Metre: उपजातिः

Verse 44
मही कृतार्था यदि मानवोऽसि जितं दिवा यद्यमरेषु कोऽपि । कुलं त्वयालंकृतमौरगं चेन्नाधोऽपि कस्योपरि नागलोकः ॥
Metre: उपजातिः

Verse 45
सेयं न धत्तेऽनुपपत्तिमुच्चैः मच्चित्तवृत्तिस्त्वयि चिन्त्यमाने । ममौ स भद्रं चुलुके समुद्रः त्वयात्तगाम्भीर्यमहत्त्वमुद्रः ॥
Metre: उपजातिः

Verse 46
संसारसिन्धावनुबिम्बमत्र जागर्ति जाने तव वैरसेनिः । बिम्बानुबिम्बौ हि विहाय धातुः न जातु दृष्टातिसरूपसृष्टिः ॥
Metre: उपजातिः

Verse 47
इयत्कृतं केन महीजगत्याम् अहो महीयः सुकृतं जनेन । पादौ यमुद्दिश्य तवापि पद्यारजःसु पद्मस्रजमारभेते ॥
Metre: उपजातिः

Verse 48
ब्रवीति मे किं किमियं न जाने संदेहदोलामवलम्ब्य संवित् । कस्यापि धन्यस्य गृहातिथिस्त्वमलीकसंभावनयाथवालम् ॥
Metre: उपजातिः

Verse 49
प्राप्त्यैव तावत्तव रूपसृष्टिं निपीय दृष्टिर्जनुषः फलं मे । अपि श्रुती नामृतमाद्रियेतां तयोः प्रसादीकुरुषे गिरं चेत् ॥
Metre: उपजातिः

Verse 50
इत्थं मधूत्थं रसमुद्गिरन्ती तदोष्ठबन्धूकधनुर्विसृष्टा । कर्णात्प्रसूनाशुगपञ्चबाणी वाणीमिषेणास्य मनो विवेशः ॥
Metre: उपजातिः

Showing 41 to 50 of 109 verses