उद्भिन्नं नवयोवनं, प्रियतमो देशान्तरस्थोऽवधिः कालो याति, न याति जीवितमिति व्यग्रं मनश्चिन्तया॥ २२६॥
२. वागारम्भस्मृतिजन्मा यथा—(रामाभ्यु.)
यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये! तव मुखच्छायानुकारी शशी।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता— स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥ २२७॥
स एवेच्छाजन्मा यथा—(उराच. ६. २६)
अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो— रभिनवशतपत्रशीमदीस्यं प्रियायाः॥ २२८॥
तरुणतमालनीलबहुलोन्नमदम्बुधराः शिशिरसमीरणा वधूत—नूतन—वारिकणाः।
कथमवलोकयेयमधुना हरिहेतिमती— र्मदकलनीलकण्ठकलहैर्मुखरा हरितः॥ २२९॥