अल्ला अणुणअणीओ ॰ ॰ ॰ ॰॥ २०३॥ (?)
प्रारब्धेऽनुनये पुनर्द्विगुणिते मन्यौ सखीनर्मणा प्रत्यापत्तिसमुत्सुके प्रियतमे पादानते तिष्ठति।
मन्यूत्पीडकृतागसाश्रुकलुषामुत्तानयन्त्या दृशं मानिन्या क्षतमानलाघवभयादन्तर्द्विधैवास्यते॥ २०४॥
विलीनो विस्रम्भस्सपदि तदपि प्रेम गलितं च्युताश्चित्राकाराः प्रणयसुभगास्ता अपि गिरः।
प्रियस्यैवं तत्तद् विनयबहिरङ्गव्यवसितं किमन्यद् दुःखानां हृदय! नगरीचत्वरमसि॥ २०५॥
९. सिद्धिविमर्शो यथा—(अमरु. ९७)
भ्रूभेदो रचितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः।