श्रृङ्गारप्रकाशे त्रिंशः प्रकाशः
एवं साधर्म्यवैधर्म्याभ्यामनुरागस्वरूपमभिहितम्। इदानीं वैधर्म्यतो मानस्वरूपमुच्यते। साधर्म्यतस्तु प्रथमानुरागेणैव। तदुक्तम् — 'तस्य चतुर्णामपि विप्रलम्भभेदानां साधारणत्वात् (प्रकर्षहेतुत्वाद्) वा सामान्ये विचित्र' इति (पृ. ११५१—७३)।
वैचित्र्यापेक्षया प्रवासात् प्रथमं मानोऽभिधीयते।
कथं पुनरस्य वैचित्र्यम्? श्रूयताम् —
अयं हि दोषोऽपि मद इव मतङ्गजेषु, विग्रहोऽपि सहकारभाव इव माकन्देषु, कार्श्यादिहेतुरपि तपःप्रबन्ध इव सात्त्विकेषु, प्रियविनो(दोऽपि) त्याग इव वदान्येषु, कटुरपि मरीचावचूर्ण इव भेषजेषु, कलुषोऽपि कज्जलनिवेश इव वनितालोचनेषु, दुरासदोऽपि भ्रमरभर इव प्रसूनसंस्तरेषु, वक्रोऽप्युक्तिविशेष इव कविकाव्येषु, यूनां मनस्सूपजायमानः प्रकर्ष—(हेतवे) प्रेमसम्पदः सम्पद्यते। तदुक्तम्— (सक. ५.१९४)
रइविग्गहम्मि, कुंठीकआओ धाराओ पेम्मखग्गस्स।
अण्णमअ व्व णिसिज्जंति माणसाणीएँ मिहुणाणं॥ १॥
(रतिविग्रहे कुण्ठीकृता धाराः प्रेमखड्गस्य।