श्रृङ्गारप्रकाशे एकत्रिंशः प्रकाशः
अथातोऽवसरप्राप्तं प्रवासमुपवर्णयिष्यामः। तत्र प्रथमानुरागादीनां पूर्वः पूर्वो विचित्रः, परः परो रागवर्धन इति विमर्शे विचित्रतया प्रथमानुरागादीनां प्रथम— मभिधानं, रागवर्धनत्वेन मानादीनामनन्तरसिति, मानानन्तरं प्रवासोऽभिधीयते।
कथं पुनः रागवर्धनाद् विचित्रस्य प्राथम्यम्?
तदुच्यते— रागवृद्धेः वैचित्र्यस्यावधातुमशक्यत्वात्। रागान्धो हि वैचित्र्यमवैचित्र्यं वा नावधातुं शक्नोति। यथोच्यते—(कामसूत्रे २.२)
शास्राणां विषयस्तावद् यावन्मन्दरसा नराः।
रतिचक्रे प्रवृत्ते तु नास्ति शास्रं न च क्रमः॥ १॥
रागवृद्धिहेतुत्वाद् वैचित्र्यस्य हेतुः प्रथमं फलमनन्तरं स्यादिति। तदुक्तं—
तैस्तैरुपायैरौचित्याद् वैचित्र्यस्य प्रयोजितैः।