कः पुनरयं प्रवासो नाम, यस्यैते दयितजातयो नर्म(नाम?)mdash; श्रवणसङ्कीर्तनादिभ्यो बिभ्यतीति।
उच्यते— सत्यनुरागे परस्परं दैवादिजनितदेशान्तरव्यवधानं प्रवासः। स
अर्थापत्रः कनिष्ठः। तेषु—
दैवापन्नो यथा—(मामा. ९.८)
न यत्र प्रत्याशामनुपतति नो वा रहयति प्रविक्षिप्तं चेतः प्रविशति च मोहान्धतमसम्।
अकिञ्चित्कुर्वाणाः पशव इव तस्यां वयमहो विधातुर्वामत्वाद् विपदि परिवर्तामह इमे॥ ४॥
धर्मापतन्नो यथा—(कादम्बरीकथासारे ५.१०७)
जानाम्यात्मानि ते प्रसादमसमं चेतो ममैतत् पदं दातुं नेच्छति किन्तु शासनमिदं नोल्लङ्घनीयं गुरोः।