युनां स्नेहोऽभिमानश्च रागयोगश्च जायते॥ २॥
भवतु नाम रागवर्धनतया प्रथमं विचित्रता। विचित्राणां तु किंकृतं मिथःप्राथम्यम्? रागवर्धनानां वा कुतस्त्यमानन्तर्यमिति।
अत्रोच्यते— प्रागसङ्गतयोः सङ्गतवियुक्तयोश्च मानप्रवासकरुणविप्रलम्भाः। प्रथमानुरागस्तु प्रागसङ्गतयोरेवेत्यतः स प्रथममेवाभिधीयते। करुणात्तु करुणोऽनन्तर एव जाते मानप्रवासयोरसम्भव एव। नहि तथाविधेभ्यः संविधानकेभ्यः तथाविधायाम— कृत्रिमायां रागवृद्धौ समुपजाते निष्कैतवे प्रकृष्टे च विभ्रमजानुरागे मानप्रवासयोरवकाशः स्यात्। तथात्वे वा नै . . . . योरन्य . .॥ उक्तं च—
कइअवरहिअं पेम्मं णत्थि चिअ मामि माणुसे लोए।
अह होइ कस्स विरहो विरहे होत्तम्मि को जिअइ॥ ३॥
(कैतवरहितं प्रेम नास्त्येव मातुलानि मानुषे लोके।
अथ भवति कस्य विरहो भवति विरहे कस्को जीवति॥)गास. २.२४
अतोऽपश्चिममेव करुणविप्रलम्भस्य करुणानन्तरसम्भोगस्य वा अभिधानं भवितुमर्हति। मानप्रवासयोस्तु प्रवासान्मानो विचित्रस्त ... विकासात् मा .. विचित्रः। तत्र चेतस्सङ्कोचात्। प्रथमानुरागे हि रागिणश्चित्तं विक्षिप्यते; माने विकसति; प्रवासे सङ्कुचति; करुणे सङि्क्षप्यत इति पूर्वाचार्यवादः। कथं स उपपद्यत इति चेत् — तथाविधप्रथमानुरागनिमित्तस्य सन्निधानात्। यथा हि चुम्बक—भ्रामक—कर्षक— द्रावकै—रयसस्ते ते विकाराः चुम्बन—भ्रमण—कर्षण—द्रवाह्वया जायन्ते; तथा प्रथमानुरागमानप्रवासकरुणविप्रलम्भसन्निधेर्मनसो विक्षेप—विकास—सङ्कोच—सङ्क्षेपा इति। यथा वा जपासूर्यचन्द्रकर्पूरसन्निधेः स्फटिकाश्मनोऽनेकप्रकृतेरेकरूपस्यानुराग— ज्वलन—स्यन्दन—स्फुटना—(नि जायन्ते) ताथा। विक्षेपविकाससङ्कोचसङ्क्षेपाधिष्ठितस्य विप्रयोगिचेतसः प्रथमानुरागमानप्रवासकरुणविप्रलम्भानुभावा इति। एतेन प्रथमानुरागादीनां रागवर्धन्तवे तारतम्यमपि परस्परमानन्तर्यहेतुर्व्याख्यातम्। उत्तरोत्तरमुपचीयमानप्रीयियोगं हि प्रियोपचारं चतुरकामिनो मनोभव ॰ ॰ ॰ ॰ ॰ णितव्यहेतुं मन्य/व। तस्मान्मानादनन्तरः करुणात्प्रथमः प्रवास एवाभिधानव्यो भवति।