मन्युस्सम्प्रति सह्यतां पुनरिहागन्तास्मि कादम्बरीं सन्दिश्येति सबाष्पगद्गदमसौ केयूरकं प्राहिणोत्॥ ५॥
या विम्बोष्ठरुचिर्न विद्रुममणिः स्वप्नेऽपि तां लब्धवान् हासश्रीः सुदृशस्तपोभिरपि किं मुक्ताफलैः प्राप्यते।
तत्कान्तिः शतशोऽपि वह्रिपतनैर्होम्नः कथं सेत्स्यति त्यक्त्वा रत्नमयीं प्रयासि दयितां कस्मै धनायाध्वग!॥ ६॥
अथैष त्रिविधोऽपि सामान्यतो विशेषतश्च प्रपञ्च्यमानः प्रायशो द्विपञ्चाशत्प्रकारः प्रथते। तत्र—
सामान्यतो भूतपूर्वः, अभूतपूर्वः, साधारणः, असाधारणः, सहजरागः, विस्रब्धरागः, प्राप्तसमयः, अप्राप्तसमयः, स—प्रतिविधानः, निष्प्रतिविधानः, सन्निकृष्टः, विप्रकृष्टः, सावधिः, निरवधिः, अल्पकालः, दीर्घकालः, सानुबन्धः (संसृष्टः), निरनुबन्धः(असंसृष्टः), प्रकाशकार्यः, प्रच्छन्नकार्यः, सोपसंहारः, निरुपसंहारः, नायिकानिमित्तः, नायकनिमित्त इति प्रकाराश्चतुर्विंशतिः।
दैवापन्नश्चतुर्धा — शापकृतः, पापकृतः, सम्भ्रमकृतः, विभ्रमकृत इति। एवं
धर्मापन्नोऽपि — साभिप्रायः, निरभिप्रायः, सानुतापः, निरनुताप इति।