इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे प्रवासोपवर्णनो नाम ॥ एकत्रिंशः प्रकाशः॥ ३१॥
सनातनललाटके लिखितमस्ति साहित्यगां मलीमसितलेखिनीमपगतांहसं प्रेक्षितुम्।
प्रवासकलनामयीमितरथा तु गाथामिमा— मसावसदृशीं पुनः सुसदृशीं विधातुं कृती।
अत्रापि सन्ति बहवोऽस्फुटितार्थका हि श्लोका विचक्षणधियः खलु तान् धयेयुः।
न प्राकृतं न खलु संस्कृतमप्यशुद्ध— लेखं निजार्थपरिभावनिकासु शक्तम्॥