(बाष्पजवालार्द्रितलोचने स्तनौ न परिमार्जितौ।
नापि दधि—अक्षताः गृहीताः न वन्दनमाला कृता॥
हर्षारम्भ—विजृम्भित—पुलकोत्कम्पभरा।
प्रेक्ष्य कान्तं प्राप्तं लग्ना कण्ठे पुनः॥)
उक्ता समाप्तिस्कन्धेऽसावुदाहरणपद्धतिः।
दिशानयोऽनुसर्तव्यमनुक्तमपि सूरिभिः॥ ३७९॥
सैव प्रवासशङ्कादिचतुर्विंशतिकन्दलः।
स्मृतोऽनङ्गविहङ्गस्य प्रवासो वसतिद्रुमः॥ ३८०॥
समासव्यासाभ्यां कुसुमधनुषो जीवितमिति प्रवासो निर्णीतः प्रियजनमनोहेमनिकषः।
अथ प्रेमोद्यानप्रणयतरुविस्त्रम्भसुमनो— निवासैकास्थानी सुरभिरभिधीयेत करुणः॥ ३८१॥