अर्थापन्नोऽपि — साभ्यनुज्ञः, निरभ्यनुज्ञः, सोपधानः, निरुपधान इति।
दैवधर्मापन्नः — प्रकृतिस्थः, कोमलः, कठोरः, परिणत इति।
दैवार्थापन्नोऽपि — ग्राम्यः, नागरः, उपनागरः, विप्रकीर्ण इति।
धर्मार्थापन्नोऽपि — हितः, अहितः, सुखः, दुःख इति।
दैवधर्मार्थापन्नोऽपि — वृत्तः, आयतः, त्र्यस्रः, चतुरस्रश्चेति॥
अर्थाश्चान्वर्थतो भूतपूर्वादीनामुदीरिताः।
षट्त्रिंशतः प्रवासानां षोडशानां तु कथ्यते॥ ७॥
यस्मिन्वियोगिनोः कर्म स्वस्थयोरिव जायते।
अनुरागातिरेकाऽपि प्रकृतिस्थः स उच्यते॥ ८॥
यूनोर्यन्नोपजायन्ते मनोमार्दवसूचकाः।