भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1 to 10 of 915 verses
अथ

श्रृङ्गारप्रकाशे द्वात्रिंशः प्रकाशः

करुणविप्रलम्भप्रकाशः

अथातः क्रमप्राप्‍तं करुणविप्रलम्भमुपदेक्ष्यामः। तस्य च प्रथमानुरागादिभ्यो रागवर्धनत्वादन्तेऽभिधानमित्यभिहितं पुरस्तात्१। भूयश्च विशेषतोऽभिधीयते।

विभावानुभावव्यभिचारिसंयोगाद् प्रकर्षमापद्यमाना२ रतिर्नाम कामश्रृङ्गारख्यां लभते। स तु नित्यनैमित्तिकादिभेदादष्टधोच्यते। तत्र रागवर्धनत्वापेक्षायां नित्याननैमित्तिकः, सामान्याद् विशेषः, प्रकाशात् प्रच्छन्नः, कृत्रिमादकृत्रिमो बलीयान्। भूयोऽपि नैमित्तिकाद् वैशोषिको, वैशेषिकात् प्रच्छन्नः, प्रच्छन्नादकृत्रिम इति सर्वतोऽप्यकृत्रिम एवोत्कृष्यते। स चाहार्यो, यौवनजः, सहजो, विस्त्रम्भजश्चेति चतुर्धा। तत्राहार्याद् यौवनजो, यौवनजात् सहजः, सहजाद् विस्त्रम्भजो बलीयान्।

कामश्रृङ्गारश्च द्वेधा। सम्भोगो विप्रलम्भश्च। तत्राभिलषणीयानामवाप्‍तौ सम्भोगः, विपर्यये विप्रलम्भः। सम्भोगश्‍च विप्रलम्भमन्तरेण न प्रकर्षमधिरोहतीति विप्रलम्भस्य सम्भोगात् प्रथममभिधानम्।

विप्रलम्भो हि कामश्रृङ्गारस्य प्राणितम्। स प्रथमानुरागेऽङ्कुरितो, माने पल्लवितः, प्रवासे कुसुमितः, करुणे फलितः, प्रथमानुरागानन्तरादिषु प्रकर्षमापन्नः सम्यगुपभोग्यो भवति। पदात्पदं च प्रतिपद्यमानो विशेषतः स्वदते।

यथा दुग्धाद् दधि स्वादु यथा दध्नोऽम्लषाडवः।

यथाम्लषाडवात् स्वादुरामिक्षैवं रसोदयः॥ १॥

ते च प्रथमानुरागादयो विप्रलम्भाः, तदनन्तरास्तु सम्भोगाः। अनुरागस्तु न तथा इङ्गिताकारादिभिः प्रथमानुरागेणेर्ष्यायितमन्त्रायितादिभिर्मानेनोत्कण्ठावेशकार्श्यादिभिः प्रवासे, यथा व्यसनाभिघातसम्मीलनादिभिरनुभावैः करुणविप्रलम्भे प्रकर्षमापन्नो निष्प्रकम्पतां प्राप्नोति। अतः प्रथमानुरागादीनां विप्रलम्भभेदानां त्रयाणामप्यनन्तरं रागवर्धनतमः करुणविप्रलम्भोऽभिधीयते इति।

Showing 1 to 10 of 915 verses