श्रृङ्गारप्रकाशे त्रयस्रिंशः प्रकाशः
अथातो विप्रलम्भापादितप्रकर्षसम्पदः सम्भोगस्य स्वरूपमुपदेक्ष्यामः।
ननूक्तं नायकयोः प्रगसङ्गतयोः सङ्गतवियुक्तयोर्वा मिथस्समागमे प्रागुत्पन्नः तदानीन्तनो वा रत्याख्यः स्थायी भावः अभिलषणीयालिङ्गनादीनामवाप्तौ सत्यां समुपजायमानैः हर्ष—धृति—स्मृति—मतिभिः व्यभिचारिभावैः संसृज्यमानः, ऋतूद्यानोपगमनजलक्रीडा—क्रीडापर्वतोपवेश—प्रसाधनग्रहणमधुपानेन्दूदयादिभिरुद्दीपन— विभावैरुद्दीप्यमानः सविभ्रमभ्रूकटाक्षविक्षेपालापसम्भ्रमस्मितादिभिरनुभावैरभिव्यज्यमानः ईप्सितमासादयन् जिहासितं जिहानः प्राप्तप्राप्यप्रकर्षावस्थः सम्भोगश्रृङ्गाराख्यां लभते।
स चतुर्धा—'१. प्रथमानुरागानन्तरः, २. मानानन्तरः, ३. प्रवासानन्तरः, ४. करुणानन्तरः' इति।१
संज्ञा तु नैषा परिभाषिक्येव प्रकृतिप्रत्ययोपसर्गविभागकल्पनायामन्वर्थत्वस्यापि विद्यमानत्वात्। तथाहि—
संक्षेप—सङ्कर—सम्पूर्णत्व—सम्यक्त्वद्योतकसमुपसर्गपूर्वस्य पालनकौटिल्या— भ्यवहारानुभवकर्मणो भुजेः भावे कर्तर्यकर्तरि च कारके संज्ञायां सर्वकालेषु घञि सम्भोग' इति रूपं भवति।