अवहत्थिऊण सहिअम्पिआइं जाणं कएण रमिओ सि।
एआइँ ताइँ सोक्खाइँ संसओ जेहि जीअस्स॥ २०९॥
(अपहस्तयित्वा सखीजल्पितानि येषां कृते न रमितोऽसि।
एतानि तानि सौख्यानि संशयो यैर्जीवस्य॥)
सहिअं माणक्खलणं णाओ पडिवक्खविप्पिअत्थाणरसो।
सहिओ अ तुह विओओ मा लज्जसु सुहअ लज्जिअव्वम्मि मए॥ २१०॥
(सोढं मानस्खलनं ज्ञातः प्रतिपक्षविप्रियस्थानरसः।
सोढश्च तव वियोगो मा लज्जस्व सुभग लज्जितव्यमपि मया॥)