पंथिअ जह उप्पण्णा तह अवरज्जंति कामिणीण पिआमा (पिअअमा)।
ण उण गलिओपआरं पुरओ दीसंति विप्पिआइं करित्ता॥ २११॥
(पथिक यथा उत्पन्ना तथा अपरज्यन्ति कामिनीनां प्रियतमाः।
न पुनर्गलितोपचारं पुरतो दृश्यन्ते विप्रियाणि कृत्वा॥)
१३. आत्माश्रितविषयो यथा—(अमरु. ६९)
चरणपतनं सान्त्वालापा मनोहरचाटवः प्रसभजनितो गाढाश्लेषो हठाच्च कचग्रहः।
सखि बहुरसो यस्यास्वादः स एव न शङ्क्यते हृदयदयिते कर्तुं मानः किमत्र करोम्यहम्॥ २१२॥
तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयोः तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया।