पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतशो यत्कञ्चुके सन्धयः॥ २१३॥
१४. प्रियाश्रितप्रभुत्वविषयो यथा—
साहसु विलासिणिअणं जेअ अहिलेंति सरसावराहा पिअविविआ।
किं हअदक्खिण्णगुणाणं पहवंताण सुहअ एस सुहाओ॥ २१४॥
{कथय विलासिनीजनमेव अभिलीयन्ते सरसापराधाः प्रिया—विविधाः।
किं हतदाक्षिण्यगुणानां प्रभवतां सुभग एष स्वभावः॥}
१५. उभयाश्रितप्रेमविषयो यथा—(अमरु.)
'पुराभूदस्माकं तनुरियमभिन्नैव सततम्'॥ २१६॥