वातैः केसरगन्धिभिर्विषधरश्वासैरिवान्धं मनो दग्धे तप्तशलाकयेव तडिता पर्यश्रुणी लोचने।
एताः सम्प्रति रूपगर्भगुरवः सान्द्रीभवत्सौरभाः केतक्यः करपत्रपत्रजरठाः कृन्तन्ति मर्माणि मे॥ २३३॥
अयमेव प्रयत्नजन्मा यथा—(रामाभ्यु.)
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहाहा देवि! धीरा भव॥ २३४॥
४. शरीरारम्भः स्मृतिजन्मा यथा—(सक. ७५९)
निपतति शयने तव स्मरन्ती पथिकवधूरवधूतजीविताशा।
जलधरसमयस्य हे/के—तुभूतां वकुललतामवलोक्य पुष्पिताग्राम्॥ २३५॥
स एवेच्छाजन्मा यथा—(राच. १. १९)
अदृश्यन्त पुरस्तेन खेला- खञ्जनपङक्तिगाः।