अयमेव प्रयत्नजन्मा यथा—(उराच.)
शैलः सोऽयं ककुभसुरभिर्माल्यवान्नाम यस्मि— न्नीलास्निग्धश्श्रयति शिखरं नूतनस्तोयवाहः।
आर्येणास्मिन्विरम विरमातः परं न क्षमोऽस्मि प्रत्यावृत्तः पुनरिव स मे जानकीविप्रयोगः॥ २३०॥
३. बुद्ध्यारम्भस्मृतिजन्मा यथा—
रक्ताशोकतरोः कराकृतिधरा राजन्त्यमी पल्लवा वृत्तत्वात् सदृशी तदूरुयुगलेनैषापि रम्भावलिः।
प्रौढिम्ना कुसुमे स्थिता तदधरच्छाया विकारं विना तन्मन्येऽत्र वने विभज्य विधिना क्षिप्ता मम प्रेयसी॥ २३१॥
स एवेच्छाजन्मा यथा—(उराच. २. २८)
यस्तान्ते दिवसास्तया सह तथा नीताः पुनः स्वे गृहे यत्सम्बद्धकथाभिरेव सुचिरं दीर्घाभिरस्थीयत।
एकः सम्प्रति नाशितप्रियतमस्तामेव पापः कथं रामः पञ्चवटीं विलोकयतु वा गच्छत्वसम्भाव्य वा॥ २३२॥