भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 891 to 900 of 1475 verses
तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि।

स्मितार्द्रमुकुलोद्‌भेदाः कदम्बवनराजयः॥ २२३॥

स एवेच्छाजन्मा यथा—(उराच. ३. २५)

करकमलवितीर्णैरम्बुनीवारशष्पै— स्तरुशकुनिकुरङ्गान्मैथिली यानपुष्यत्।

भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव हृदयस्य प्रस्नवोद्धेदयोग्यः॥ २२४॥

एष द्वेषजन्मा यथा—

सञ्छन्नैर्जलवामनैर्जलधरैर्व्योम्नि प्रसुप्‍ते जने देवे वर्षति दिङ्गमुखेषु चरति स्वैरं कदम्बानिले।

उत्के गायति च प्रवासिनि कथं पान्थप्रियायाणामिमा नोन्मथ्नन्ति मनांसि मांसलमिलद्दीर्घान्धकाराः क्षपाः॥ २२५॥

अयमेव प्रयत्‍नजन्मा यथा—

उत्केकाः शिखिनः पयोदपटलैश्छन्नं नभोमण्डलं वाता वान्ति कदम्बरेणुशबला जाता मही शाद्‌वला।

Showing 891 to 900 of 1475 verses