तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि।
स्मितार्द्रमुकुलोद्भेदाः कदम्बवनराजयः॥ २२३॥
स एवेच्छाजन्मा यथा—(उराच. ३. २५)
करकमलवितीर्णैरम्बुनीवारशष्पै— स्तरुशकुनिकुरङ्गान्मैथिली यानपुष्यत्।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव हृदयस्य प्रस्नवोद्धेदयोग्यः॥ २२४॥
सञ्छन्नैर्जलवामनैर्जलधरैर्व्योम्नि प्रसुप्ते जने देवे वर्षति दिङ्गमुखेषु चरति स्वैरं कदम्बानिले।
उत्के गायति च प्रवासिनि कथं पान्थप्रियायाणामिमा नोन्मथ्नन्ति मनांसि मांसलमिलद्दीर्घान्धकाराः क्षपाः॥ २२५॥
उत्केकाः शिखिनः पयोदपटलैश्छन्नं नभोमण्डलं वाता वान्ति कदम्बरेणुशबला जाता मही शाद्वला।