भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 881 to 890 of 1475 verses
इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिन—न्यासोदञ्चन्नवाऽङ्कुरक़ञ्चुकः॥ २२०॥

१. नाम्यकं जो, न्नमिक राघवः २. क्रमस्य क्रमुकस्य कवलनादिति यावत्। ३. नाम्भः जो, नाभ्यः राघवः ४. कान्ता का मम = कान्तारैर्मम. जो. रा. ५. रुपरता = कपरता जो. ६. विलोलतां मदकलैः = विलोलनादकबलः रा.

८. क्रियाविशेषानुमापकमर्थान्तरं कार्यचिह्नं यथा—

सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्त्रुतिः सर्वं नैतदिहास्ति तत्कथमयं पान्थस्तपस्वी मृतः।

आ ज्ञातं मधुलम्पटैर्मधुकरैरारब्धकोलाहलै— र्ननं दुःखितकेन चूतमुकुले दृष्टिः क्वचित् पातिता॥ २२१॥

यथा वा—(विक्र. ४. ३४)

रक्ताशोक कृशोदरी क्व नु गता मुक्त्वानुरक्तं जन नो दृष्टेति मुधैव धूनयसि किं वातावधूतं शिरः।

उत्कण्ठाघटमानषट्पदघटासङ्घट्टदष्टच्छद— स्तत्पादाहतिमन्तरेण सरसः पुष्पोद‍्गमोऽयं कुतः॥ २२२॥

अथैतेषु स्मृतीच्छाद्वेषप्रयत्‍नजन्मानो वाग्बुद्धिशरीरारम्भाः। तेषु—

१. मनआरम्भः स्मृतिजन्मा यथा—(राच. १. १८)

Showing 881 to 890 of 1475 verses