चन्द्रपीडस्य पश्यन्ती स्थिरामाशां बबन्ध सा॥ २३४॥
१३. समयप्रतीक्षा यथा—(कु.सं. ४.४६)
अथ मदनवधूरुपप्लवान्तं व्यसनकृशा प्रतिपालयाम्बभूव।
शाशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम्॥ २३४॥
तेनाष्टौ परिगमिताः समाः कथंचिद् बालत्वादवितथसूनृतेन सूनोः।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च॥ २३६॥
न ज्वाला न च दहनो न धूमजालं क्वाकस्मात्सिकतिलवेदिकानिपातः।
स्वप्नोऽयं किमुत महेन्द्रजालमाहो माया स्वित् किमिदमहो महाविचित्रम्॥२३७॥