चन्द्रपीडं सा च जग्राह कण्ठे कण्ठस्थानं जीवितं च प्रपेदे।
तेनापूर्वां सा समुल्लास लक्ष्मीमिन्दुस्पृष्टा सिन्धुवेलेव भेजे॥ २३८॥
अथ सा पितृनाथवर्त्मनः प्रतियाता वनर्मव भामिनी।
दयितं शयितं महीतले दधतं प्राणकलामलोकयत्॥ २३९॥
शिलाशय्यां त्यक्त्वा तदनु चिरसुप्तोत्थित इव क्षणं स्थित्वा जृम्भालसवदनमुन्मील्य नयने।
ततश्चन्द्रापीडः प्रहतमुरजध्वानपटुना स्वरेण स्वेनैव स्मितमधुरमाह प्रियतमाम्॥ २४०॥
१६. पुनस्समागमो यथा—(कादकसा. ८.८७)