भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 901 to 910 of 915 verses
श्रुत्वेति तस्य गतमुत्सुकतां गताऽसौ रोमाञ्चकञ्चुकमकृत्रिममुद्‍वहन्ती ।

कादम्बरी चरणयोर्निपपात पत्यु— रानन्दबाष्पकणशीकरितेक्षणश्रीः ॥ २४१॥

यथा वा—(कादकसा. ८.८५)

सख्याः पतिं पितृतपोभिरवाप्‍तदिव्य— जीवं कपिञ्जलकरार्पितपाणिपद्मम्।

मन्मण्डलादवतरन्तमखण्डकान्ति— मापाण्डुगण्डमवलोकय पुण्डरीकम्॥ २४२॥

इति प्रतिष्‍ठाः करुणामलार्चिषामशीतिरष्‍टौ च विकल्पजातयः।

सहानुभावैर्द्विरशीतिसम्मितैरुपाधयो द्वादश पञ्च सन्धयः॥ २४३॥

तदेतदाबन्धनमात्मजन्मनो निरीति श्रृङ्गाररसस्य जीवितम्।

परा च काष्‍ठा प्रणयस्य जीवता प्रियेण यत् प्रेत्य पुनस्समागमः॥ २४४॥

भेदाः पृथक्पृथगमी प्रथमानुरागमानप्रवासकरुणात्मनि विप्रलम्भे।

Showing 901 to 910 of 915 verses