शापादसि प्रतिहता स्मृतिलोपरूक्षे भर्तर्यपेततमसि प्रभुता तवैव।
छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा॥ २३१॥
सा रक्षिता तनुरियं तु तव प्रियेति शापः कृशोदरि! विराममवाप पापः।
अद्य प्रभृत्यखिलमेव हि चन्द्रलोकं शाधि स्वपादकृतमुद्रमिदं जगच्च॥ २३२॥
१२. प्रत्याशानुबन्धो यथा—(कादकसा. ४.११९)
किन्तु क्लेशाय येनाशालेशेन हतजीवितम्।
राजपुत्र! बिभर्मीदं तदाश्चर्यं वदामि ते॥ २३३॥
दिवसेष्वथ गच्छत्सु निर्विकारशरीरताम्।