अक्खडइ पिआ हिअए अण्णं महिलाअणं रमंतस्स।
दिट्ठे सरिसम्मि गुणे सरिसम्मि अई/दीसंते॥ २१८॥
(आस्खलति प्रिया हृदये अन्यं महिलाजनं ममाणस्य।
दृष्टे सदृशे गुणे सदृशे अदृश्यमाने॥)
७. निर्वर्त्य—विकार्य—प्राप्य—कर्मव्यापी क्रियाविशेषः कार्यः यथा—
मा गाः पान्थ! पथामुना यदि तव भ्रातः! प्रियं जीवितं यच्चूताकृतिरत्र तिष्ठति महान् रौद्रः पुरो राक्षसः।
तेनोद्यन्मकरन्द—लुब्ध—मधुप—व्याहार—&झङ्करिणा पान्थानामधुनैव निर्घृणाधिया सार्थो हतः श्रूयते॥ २१९॥
उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद् भवद्भिरवेक्ष्यताम्।