NOTES pg=1355! १. आवुत्तो बाणः श्यालश्च मयुरः। आद्यं चरणत्रयं बाणस्य प्रियां प्रसादयतः चतुर्थश्च मयूरस्य रहसिच्छत्रस्येति प्रसिद्धिः।
त्वया क्षान्तं क्षा/कान्तं कुरु मुखमितो मां प्रति कृतं निधेहीमं पृष्ठे मम करमयं कान्त! निहितः।
सखीनां निर्बन्धान्मम च धृतपाणेः प्रणमतः प्रिये कारुप्रीतेस्तव परमगूढा मयि रुषः॥ १९७॥
अथ मानावस्थाः, मानमर्यादाः, मानोपक्रमः, मानप्रतिभेदाः, मानविमर्शाः, मानोपालम्भाश्चेत्याश्रयस्य व्यलीकप्रियादिसोढुः कर्माणि। तत्र मनोदृग्वक्त्रवाग्वपुश्चेष्टासु मानवैकृतानि मानावस्थाः। तत्र मनसि चिन्ता व्यामोहश्च, दृशि दैन्यं प्रज्ञागरश्च, वक्त्रे वैवर्ण्यमुन्मादश्च, १वाच्यरतिर्विलापश्च, वपुषि कार्श्यं विषादश्च, चेष्टायां शून्यता निर्वेदश्चेति। तेषु
अणुणअणिरासगरुअं पडिवक्खस्स गरुअत्तणेण णि/विसण्णं।
पेम्मासंघेण पुणो समाससंत्ती (विलोअई वराई)॥ १९८॥
(अनुनयनिरासगुरुकं प्रतिपक्षस्य गुरुत्वेन नि/विषण्णम्।
प्रेमासङे्गन पुनः समाश्वसती (विलोक्यते वराकी)॥)