भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 861 to 870 of 1822 verses
क्षणविकसितो दीर्घश्वासैः क्षणं मुकुलीकृतः कृतकहसितैर्व्यक्तो मौनप्रतिक्रियया क्षणम्। क्षणविघटितो नर्मालापैरिति क्रमसूचितः स्थगितविषयो मुग्धे मानः कदर्थयतीव माम्॥१९२॥

८. कोमलो यथा—(अमरु. ८१)

'कपोले पत्राली करतलनिरोधेन'॥१९३॥ (पृ.८७०) इत्यादि।

९. कठोरो यथा—

कृशप्रया रात्रिः कृशतनु शनैर्येन विनमन् प्रदीपोऽयं निद्रावशमुपघतो घूर्णत इव। प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो कुचप्रत्यासत्त्या हृदयमपि ते चण्डि! कठिनम्॥१९४॥१

१०. नागरो यथा—(अमरु.१४)

कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमप्यानतिमति। न दृष्‍टे शौथिल्यान्मिलनमिति चेतो दहति मां निगूढान्तःकोपा कठिनहृदये संवृतिरियम्॥१९५॥

११. उपनागरो यथा—

वरं भ्रूभङ्गस्ते प्रकटितगुरुक्रोधविभवा वरं सोपालम्भाः प्रणयविमुखा गद्‌गदगिरः। वरं मानाटोपप्रसभजनितोऽनादरविधि— र्न गूढान्तःकोपा कठिनहृदये संवृतिरियम्॥१९६॥

१२. ग्राम्यो यथा—

Showing 861 to 870 of 1822 verses