दूरगअं पि णिअत्तइ दूरणिअत्तं पुणो पअत्तइ पेम्मं।
कह होइ परिणामो माणस्स इ मोहंति विमुहिज्जंति॥ १९९॥
(दूरगतमपि निवर्तयति, दूरनिवृत्तं पुनः प्रवर्तयति प्रेम।
कथं भवति परिणामो मानस्येति मोहयन्ति विमुह्यन्ति॥)
पडिवक्खे दूमिज्जइ जीएँ ण वीसवइ गुरुअ—मंतुपडिहआ।
तीसे कह वि सहिअणे खंडिअपेम्मलहिआ णिसम्मइ दिट्ठी॥ २००॥
{प्रतिपक्षे दूयमाने यया न वश्राम्यते गुरुक—मन्युप्रतिहतया।
तस्याः कथमपि सखीजने खण्डितप्रेमलघ्वी निशाम्यति दृष्टिः॥}