वड्ढइ विरहिणीजीवइं किं घूइं कुडउलोहिं अलिअत्तउ मअणहोणं हत्थकुडउ॥ २१४॥
५. ईप्सितमनीप्सितं वा द्रव्यजातं वस्तु। तत्र ईप्सितं यथा—(कुन्दमाला. ४. २०)
द्यूते पणः प्रणयकेलिषु कण्ठपाशः क्रीडापरिश्रमहरं व्यजनं रतान्ते।
शय्या निशीथकलहे हरिणेक्षणाया लब्धं मया विधिवशादिदमुत्तरीयम्॥ २१५॥
अयि पिबत चकोराः किञ्चिदुन्नाम्य१ कण्ठं २क्रमकबलनचञ्चच्चञ्चवश्चन्द्रिकाम्भः३ ।
विरहविधुरितानां जीवितत्राणहेतो— र्भवति हरिणलक्ष्मा येन तेजोदरिद्रः॥ २१६॥
६. असाधारणधर्मचिह्नानि यथा—(सूमु. २२५)
कान्ता का मम४ गर्जितैरुपरता५ धाराम्बुभिः का हता का मोहं गमिता वियोगविधुरा धाराकदम्बानिलैः।
नीता का च विलोलतां मदकलैः६ केकारवैर्बर्हिणा— मित्थं पान्थ! गृहाणि पश्यति घनो विद्युत्प्रदीपैरिव॥ २१७॥