भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 851 to 860 of 1475 verses
वातप्रोत्क्षिप्‍तधूलीपरिमिलनसमुद्‌ध‌ूलिताम्भः(ङ्गं) समन्ता— द्दण्डोद्वेल्लद‍्वलाकावलिकुणपशिरोनद्धनीलाभ्रकेशः ।

पेङ्खद‍्विद्युत्पताकारुचिरसुरधनुः खण्डखट‍्वाङ्गधारी सम्प्राप्‍तः प्रोषितस्त्रीप्रतिभयजननः कालकापालिकोऽयम्॥ २११॥

वसन्तसमयो यथा—

चैत्रः सैष सखे स्ववृन्तनियतश्‍यामाश्रिभिः किंशुकै— रङ्गारैरिव भासुरान्धरुचिक्षिश्चक्षुंषि दन्हह्यते।

यत्रैता मदमञ्जुभिः परभृतैरुच्चोच्चरत्पञ्चमा— श्‍चूतारामभुवः प्रियाविरहिणां कुर्वन्ति कर्णज्वरम्॥ २१२॥

४. घनोन्नतिप्रसूनविकासादीनि कालचिह्नानि। यथा—(अमरु. ११७)

किञ्चिन्मुद्रितपांसवः शिखिकुलैस्सानन्दमालोकिताः भग्नवास—रुदद्धरिद्रगृहिणी—श्वासानिलैर्जर्जराः।

एते ते निपतन्ति नूतनघनात् प्रावृइभरारम्भिणो विच्छायीकृतविप्रयुक्तवनितावक्त्रेन्दवो बिन्दवः॥ २१३॥

यथा वा—

माणगइंदहो अंकुसु महुसिहहो णहकुमाहवसि रिइकेलि सुअवआणा संककरु।

Showing 851 to 860 of 1475 verses