आरण्यकाश्च गृहिणश्च रताश्च धर्मे सांसारिकेषु च सुखेषु वयं रसज्ञाः॥ २०८॥
२. अनुभूयमानस्मर्यमाणानि देशाचिह्नानि। तेषु—
अनुभूयमानं यथा—(उराच. २. २३)
एते त एव गिरयो विरवन्मयूरास्तान्येव मत्तहरिणानि वनस्थलानि।
आमञ्जुवञ्जुलरुतानि च तान्यमूनि नीरन्ध्रनीरनिचुलानि सरित्तटानि॥ २०९॥
स्मर्यमाणं यथा—(उराच. २. २७)
पुरा यत्र स्त्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम्।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति॥ २१०॥
३. वर्षावसन्तसमयादिः कालः। तत्र—