तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः।
काले खलु सामारब्धाः फलं बध्नन्ति नीतयः॥ २२८॥
१०. तदध्यवसायो यथा—(उरा. ४.५)
स्वामी शोकमयीं दशामुपगतः सीताप्रवृत्तिं विना दुष्प्रेक्षा जलभारवामनघनच्छन्नाश्च सर्वा दिशः।
क्रूरास्ते पिशिताशिनः प्रकृतितो नैवागतो मारुति— र्हा जातं किमिदं विसंस्थुलमहो पापस्य मे सर्वतः॥ २२९॥
बाष्पाम्भस्स्थगितेक्षणं क्षणमसौ मूर्च्छाविलुप्तव्यथो विन्यस्योरसि सम्भ्रमात् करतलं भ्रात्रा यदाश्वास्यते।
तत्राशा मायि कारणं न च मया क्लीबेन किञ्चित् कृतं प्राणास्तद् व्रजताथवा नहि भवेदेवं प्रभुर्वञ्चितः॥ २३०॥
११. प्रत्यूहप्रशमनं यथा—(शाकु.७.३२)