पर्यस्य स्वकरेण बाष्पपयसां पूरस्य पक्ष्मालकान् निःश्वासांश्चं नखम्पचान् न सहते पाणिः कपोलाश्रयः।
दग्धोन्तर्मदनाग्निना स्तनभरो भग्नेव पाण्डुच्छवि— र्भास्वद्बिम्बगता कलेव शशिनः क्षीणा तनुस्ताम्यति॥ १९९॥
किसलयमिव मुग्धं बन्धनाद् विप्रलूनं हृदयकुसुमशोषो दारुणो दीर्घशोकः।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम्॥ २००॥
आपाण्डुर्वदने गतावविशदं चिन्ताऽऽमयेष्वायतः क्षामो वाचि विचारणास्वकुशलो रम्येष्वरम्यक्रियः।
उत्कम्पी हृदये द्रवो नयनयोरूर्वोर्जडोऽङ्गे गुरुः शोकोऽयं मयि याति तद्विरहभूरेकोऽप्यनेकां गतिम्॥ २०१॥