क्षणमविशदं व्यक्तं भूयस्ततः परिमन्थरं तदनु चकितं ह्नीतं पश्चात् ततश्च निरङ्कुशम्।
कुवलयदृशा प्रेम प्रादुष्कृतं नवसङ्गमे तदिह विरहे ध्यातं ध्यातं विधूनयतीव माम्॥ १९६॥
हे विप्रयोगदहन! ज्वलितो (यदि त्व) मां निर्दह प्रियमिदं न हि जीवितं मे।
एकं मनः परिहराञ्जलिरेष मूर्ध्नि न्यस्तो मया वसति यत्र सरोरुहाक्षी॥ १९७॥
प्रियविरहमहोष्मा मर्मुरानङ्गलेखा मयि हतक! हिमांशो! मा स्पृश क्रीडयापि।
इह हि तव लुठन्तः प्लोषपीडां भजन्ते दरजरठमृणालीकाण्डमुग्धा मयूखाः॥ १९८॥