रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै— स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्सखे! मामपि।
तस्याः पादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वँ तुल्यमशोक! केवलमहं धात्रा सशोकः कृतः॥ १९३॥
भवद्धिस्सर्वाङ्गप्रकृतिरमणीया कुलवधू— रिहस्थैर्दृष्टा वा विदितमिह वास्या यदभवत्।
वयोऽवस्थां तस्याः श्रृणुत सुहृदो यत्र मदनः प्रगल्भव्यापारश्चलत हृदि मुग्धश्च वपुषि॥ १९४॥
इदं किं ते न्यस्तं वलयिनि करे वक्त्रकमलं प्रिये! कः कोपोऽयं प्रणयिनि निरागस्यपि जने।
ब्रुवाणे मय्येवं श्वसितविषयोत्कम्पितकुचं मृगाक्ष्यास्तत्कालं नयनजलमोवोत्तरमभूत्॥ १९५॥