अनुग्रह—प्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः।
सायं मृगाध्यासितवेदिपार्श्वं स्वमाश्रमं शान्तिसुखं निनाय॥ २०३॥
तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु।
निर्विष्टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु॥ २०४॥
१३. तन्मतव्याक्षेपो यथा—(सेब. ११.८८)
तिहुअणमूलाहारं विसठ्ठमहिंदपरिमुक्कऊढरणधुरं।
जाणंती कीस कुसं तुलेसि सेसपुरिसाणुमाणेण पइं॥ २०५॥
(त्रिभुवनमूलाधारं विसर्पन्महेन्द्रपरिमुक्तव्यूढरणधुरम्।
जानती कस्मात् कृशं तुलयसि शेषपुरुषानुमानेन पतिम्॥)