तह तं सि मोहं मुर्च्छागमपडिअणीसहविसण्णमुही।
रक्खसमाए त्ति फुडं जाणंती जु इमं अहंपि विमूडा॥ २०१॥
(तथा त्वमसि गता मोहं मूर्च्छागमपतितनिस्सहविषण्णमुखी।
राक्षसमाया इति स्फुटं जानती यथा इदमहमपि विमूढा॥)
तं अवलंबसु धीरं संपइ णासउ अमंगला जाआ इमां।
मुणिअपरमत्थलहुई अवईहिअ—णिप्फला णिसाअरमाआ॥ २०२॥
(तदवलम्बस्व धैर्यं सम्प्रति नश्यतु अमङ्गला जाता इयम्।
ज्ञातपरमार्थलघ्वी अवधीरितनिष्फला निशाचरमाया॥)
१२.आप्यायनं यथा—(रघु. १४.७९)