एक्केण कआ कइणा कह होहि अणहरक्खसो रहुवहो॥ १९६॥
(सकला निशाचर—पुरीगृह—परिपाटि—समनिर्ह्रादित—रुदितरवा।
एकेन कृता कपिना कथं भवति अनघराक्षसः रघुवधः॥)
९. प्रश्वासनं यथा—(सेब. ११.९४)
किं व समाससिअव्वे मुज्झसि दहवअणदप्पभंगुप्फालं।
पेच्छंती पमअवणं रामाणत्तिअर—पवअपव्वद्धदुमं॥ १९७॥
(किमिव समाश्वसितव्ये मुह्यसि दशवदनदर्पभङ्गोत्फालम्।
प्रेक्षमाणा प्रमदावनं रामाज्ञप्तिकरप्लवगप्रविद्धद्रुमम्॥)
वालिवहदिठ्ठसारं णगलच्छिअसमुद्ददिण्णथलवहं।