रोहिअलंकावलअं मा लहुअं पेच्छ राहवस्स भुअबलं॥ १९८॥
(वालिवधदृष्टसारं नगलक्षितसमुद्रदत्तस्थलपथम्।
रोधितलङ्कावलयं मा लघुकं प्रेक्षस्व राघवस्य भुजबलम्॥)
१०. सत्यापनं यथा—(रघु. १४.७३)
उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि।
त्वां प्रत्यकस्मात् कलुषप्रवृत्तेरस्त्येव मन्युर्भरताग्रजे मे॥ १९९॥
तवेन्द्रकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते।
धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या॥ २००॥
११. प्रत्यानयनं/यनम् यथा—(सेब. ११.९६)