३. प्रजागरो यथा—(शाकु. ६.२२)
प्रजागरात् खिलीभूतस्तस्यास्स्वप्ने समागमः।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि॥ १८७॥
णिंदणीकसु एइ वढणिंसि चिंत्तं तह जाइ।
दइआमुहपडिबिंवे भिजउ चिंपिंज्जइ ताइ॥ १८८॥
४. तत्रैव विषयव्यावृत्तिर्यथा—
विधर्माणो भावास्तदुपहितवृत्तेर्न धृतये सरूपत्वादन्ये विहितविफलौत्सुक्यविरसाः।
अतश्चेत्थं पूर्वेष्वसृजदितरेभ्यः प्रतहतं क्व हीनं प्रेयस्या हृदयमिदमन्यत्र रमताम्॥ १८९॥