त्रिदशगतदानशीभरतुषारार्द्रितपल्लवं स्वर्गद्रुमम्॥) (हरिवि.)
५. समर्पणं यथा—(गास. ६. ५०)
स-कअग्गह-रहसु-त्ताणिआणणा पिअइ, पिअमुहविइण्णं।
थोअं थोअं रोसोसहं व उअ माणंसिणी मइरं॥ १६७॥
{सकचग्रहरभसोत्तानितानना पिबति प्रियतममुखवितीर्णाम्।
स्तोकं स्तोकं रोषौषधमिव पश्य मनस्विनी मदिराम्॥}
६. भेदप्रकारेषु शङ्काद्युत्पादनं यथा—(सूमु. २०२)
प्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषं प्रिये! शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः॥ १६८॥
७. इन्द्रजालं यथा—(रत्ना. ४.१४)