हर्म्याणां हेमश्रृङ्गश्रियमिव निवहैरर्चिषामादधानः सान्द्रोद्यानद्रुमालीप्लवनपिशुनितात्यन्ततीव्राभितापः।
कुर्वन् क्रीडामहीध्रं सजलधरमिव श्यामलैर्धूमपातै— रेष प्लोषार्तयोषिज्जन इह सहसैवोत्थितोऽन्तःपुरेऽग्निः॥ १६९॥
जं वि अलिओवआरं परस्य दक्खिण्णआएँ घेप्पइ हिअअं।
जइ सो वि सिणेहोल्लिहणं णाम सव्भाव-कैअव-विसेसो॥ १७०॥
(यदपि अलीकोपचारं परस्य दाक्षिण्यैः गृह्यते हृदयम्।
यदि तस्या अपि स्नेहोल्लेखनं नाम सद्भावकैतवविशेषः॥)
९. दण्डप्रकारेषूपेक्षा यथा—
कइअव-परंमुहाणं थोओसरिआणं एक्कसअणंमि।
पूरिज्जइ रोमंचुग्गमेण दोणंवि ओआसो॥ १७१॥